वांछित मन्त्र चुनें

य॒ज्ञस्य॑ वो र॒थ्यं॑ वि॒श्पतिं॑ वि॒शां होता॑रम॒क्तोरति॑थिं वि॒भाव॑सुम् । शोच॒ञ्छुष्का॑सु॒ हरि॑णीषु॒ जर्भु॑र॒द्वृषा॑ के॒तुर्य॑ज॒तो द्याम॑शायत ॥

अंग्रेज़ी लिप्यंतरण

yajñasya vo rathyaṁ viśpatiṁ viśāṁ hotāram aktor atithiṁ vibhāvasum | śocañ chuṣkāsu hariṇīṣu jarbhurad vṛṣā ketur yajato dyām aśāyata ||

पद पाठ

य॒ज्ञस्य॑ । वः॒ । र॒थ्य॑म् । वि॒श्पति॑म् । वि॒शाम् । होता॑रम् । अ॒क्तोः । अति॑थिम् । वि॒भाऽव॑सुम् । शोच॑न् । शुष्का॑सु । हरि॑णीषु । जर्भु॑रत् । वृषा॑ । के॒तुः । य॒ज॒तः । द्याम् । अ॒शा॒य॒त॒ ॥ १०.९२.१

ऋग्वेद » मण्डल:10» सूक्त:92» मन्त्र:1 | अष्टक:8» अध्याय:4» वर्ग:23» मन्त्र:1 | मण्डल:10» अनुवाक:8» मन्त्र:1


बार पढ़ा गया

ब्रह्ममुनि

इस सूक्त में परमात्मा के रचित सूर्य आदि का विज्ञान और लाभ [ग्रहण तथा] हमें परमात्मा की उपासना करनी चाहिए, यह वर्णित है।

पदार्थान्वयभाषाः - (वः) हे मनुष्यों ! तुम (यज्ञस्य रथ्यम्) अध्यात्मयज्ञ के रथवाहक की भाँति वाहक (विश्पतिम्) प्रजापालक (विशां होतारम्) उसमें प्रवेश करनेवालों के ग्रहणकर्त्ता-स्वीकारकर्त्ता (अक्तोः-अतिथिम्) कर्म के या मार्ग के उपदेष्टा (विभावसुम्) ज्ञानप्रकाशधनवाले-ज्ञानप्रकाश धन के दाता परमात्मा को (शुष्कासु) आर्द्र भावरहित प्रजाओं में तथा (हरिणीषु) मनोहारिणी ध्यानोपासनपरायण प्रजाओं में (जर्भुरत्) यथावत् अपने स्वरूप को धरता है-स्थापित करता है, ऐसा (वृषा) सुखवर्षक (केतुः) ज्ञाता द्रष्टा (यजतः) सङ्गमनीय (द्याम्-अशायत) प्रकाशमान द्युलोक के प्रति व्याप्त होता है ॥१॥
भावार्थभाषाः - परमात्मा अध्यात्मरथ का चालक, प्रजाओं का पालक, उसके अन्दर प्रवेश करनेवालों को स्वीकार करनेवाला यथावत् कर्मजीवनमार्ग का उपदेष्टा ज्ञानप्रकाशक है तथा वह उपासनापरायण, आर्द्रभावनापूर्ण और आर्द्रभावना से रहित समस्त प्रजाओं में प्रकाशदाता सब संसार में व्याप्त है, उसे ऐसा मानकर उपासना करनी चाहिये ॥१॥
बार पढ़ा गया

ब्रह्ममुनि

अत्र सूक्ते परमात्मना रचितानां सूर्यादीनां विज्ञानलाभौ ग्राह्यौ, तस्य चोपासना कार्येति वर्ण्यते।

पदार्थान्वयभाषाः - (वः) हे मनुष्याः ! यूयम् “वः” विभक्तिव्यत्ययेन प्रथमास्थाने द्वितीया (यज्ञस्य रथ्यम्) अध्यात्मयज्ञस्य रथवाहकमिव वाहकम् “रथ्यः-यो रथं वहति सः” [ऋ० ५।५४।१३ दयानन्दः] (विश्पतिम्) प्रजापालकं (विशां होतारम्) तत्र विशतां ग्रहीतारं स्वीकर्त्तारं (अक्तोः-अतिथिम्) कर्मणो-मार्गस्य वा “अक्तुभिः प्रसिद्धैः कर्मभिर्मार्गैः” [ऋ० १।९४।५ दयानन्दः] उपदेष्टारम् “अतिथिः-उपदेष्टा” [ऋ० १।७३।१ दयानन्दः] (विभावसुम्) ज्ञानप्रकाशधनवन्तम्-ज्ञानप्रकाशधनस्य दातारम् “विभावसुम्-येन विविधा भा विद्यादीप्तिर्वास्यते तम्” [यजु० १२।३१ दयानन्दः] (शुष्कासु हरिणीषु) आर्द्रभावनारहितासु प्रजासु तथा मनोहारिणीषु ध्यानोपासनपरायणासु प्रजासु (जर्भुरत्) भृशं धरति यथा सः धारयति “जर्भुरत्-भृशं धरेत्” [ऋ० २।२।५ दयानन्दः] तथा (वृषा) सुखवर्षकः (केतुः) ज्ञाता द्रष्टा (यजतः) यजनीयः (द्याम्-अशायत) प्रकाशमानां दिवं द्युलोकं प्रत्यपि शेते व्याप्नोति ॥१॥
भावार्थभाषाः -